Sanskrit Tattoo 1
A scholar earns respect everywhere
स्वगृहे पूज्यते मूर्खः स्वग्रामे पूज्यते प्रभुः । स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
Sanskrit Tattoo 2
Practise what you preach
परोपदेशे पाण्डित्यम् सर्वेषां सुकरं नृणाम् । धर्मे स्वीयमनुष्ठानम् कस्यचित्तु महात्मनः ॥
Sanskrit Tattoo 3
Better die with honor than live in shame
वरं शून्या शाला न च खलु वरो दुष्टवृषभः वरं वेश्या पत्नी न पुनरविनीता कुलवधूः । वरं वासोऽरण्ये न पुनरविवेकाधिपपुरे वरं प्राणत्यागो न पुनरधमानामुपगमः ॥
Sanskrit Tattoo 4
Each man is the architect of his own future
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति । एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥
Sanskrit Tattoo 5
After a storm comes a calm
सुखमापतितं सेव्यम् दुःखमापतितं तथा । चक्रवत्परिवर्तन्ते दुःखानि च सुखानि च ॥
Sanskrit Tattoo 6
A silent fool is counted wise
मूर्खोऽपि शोभते तावत् सभायां वस्त्रवेष्टितः । तावच्च शोभते मूर्खः यावत्किञ्चिन्न भाषते ॥
Sanskrit Tattoo 7
Blessed are those who keep good company
दुर्लभं त्रयमेवैतत् दैवानुग्रहहेतुकम् । मनुष्यत्वं मुमुक्षुत्वम् महापुरुषसंश्रयः ॥
Sanskrit Tattoo 8
You cannot wash charcoal white
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयम् पुनर्गच्छति शीतताम् ॥
Sanskrit Tattoo 9
A neat appearance always helps
कुचैलिनं दन्तमलोपधारिणम् बह्वाशिनं निष्ठुरभाषिणं च । सूर्योदये चाऽस्तमये च शायिनम् विमुञ्चति श्रीरपि चक्रपाणिनम् ॥
Sanskrit Tattoo 10
Flattery is the infantry of negotiation
यस्माच्च प्रियमिच्छेत्तु तस्य ब्रूयात्सदा प्रियम् । व्याधो मृगवधं कर्तुम् गीतं गायति सुस्वरम् ॥
Sanskrit Tattoo 11
Virtues are the true kith and kin of a man
सत्यं माता पिता ज्ञानम् धर्मो भ्राता दया सखा । शान्तिः पत्नी क्षमा पुत्रः षडेते मम बान्धवाः ॥
Sanskrit Tattoo 12
Familiarity breeds contempt
अतिपरिचयादवज्ञा सन्ततगमनादनादरो भवति । मलये भिल्लपुरन्ध्री चन्दनतरुकाष्ठमिन्धनं कुरुते ॥
Sanskrit Tattoo 13
Don’t blame the mirror if your face is faulty
पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम् नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दूषणम् । धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम् यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥
Sanskrit Tattoo 14
A verse a day keeps the devil away
श्लोकेन वा तदर्धेन पादेनैकाक्षरेण वा । अवन्ध्यं दिवसं कुर्यात् दानाध्ययनकर्मभिः ॥
Sanskrit Tattoo 15
Unity is strength
बहूनामप्यसाराणाम् समवायो हि दुर्जयः । तृणैरावेष्ट्यते रज्जुः येन नागोऽपि बद्ध्यते ॥
Sanskrit Tattoo 16
Virtue is not hereditary
गुणाः सर्वत्र पूज्यन्ते पितृवंशो निरर्थकः । वासुदेवं नमस्यन्ति वसुदेवं न ते जनाः ॥
Sanskrit Tattoo 17
One gains fame by hook or by crook
घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् । येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् ॥
Sanskrit Tattoo 18
Knowledge is the one and only everlasting asset
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् । कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् येषां तान् प्रति मानमुज्झत नृपाः कस्तैस्सह स्पर्धते ॥
Sanskrit Tattoo 19
हर्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा
May we all be happy.
ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।
May we all be free from diseases.
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम्
May we all see the good.
येषां तान् प्रति मानमुज्झत नृपाः कस्तैस्सह स्पर्धते ॥
May none suffer from miseries.