Sanskrit Tattoos of English Phrases 4

Sanskrit Tattoo 1

Each man is the architect of his own future

उद्योगिनम् पुरुषसिंहमुपैति लक्ष्मीः दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥

Sanskrit Tattoo 2

A clean conscience is the best pillow

दिवसेनैव तत् कुर्यात् येन रात्रौ सुखं वसेत् । यावज्जीवञ्च तत् कुर्यात् येन प्रेत्य सुखं वसेत् ॥

Sanskrit Tattoo 3

Growing old is inevitable, growing up is optional

अङ्गं गलितं पलितं मुण्डम् दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डम् तदपि न मुञ्चत्याशापिण्डम् ॥

Sanskrit Tattoo 4

Self help is the best help

देहीति वचनं श्रुत्वा देहस्था पञ्चदेवताः । तत्क्षणादेव लीयन्ते धीह्रीश्रीक्रान्तिकीर्तयः ॥

Sanskrit Tattoo 5

Dignity begins when boasting ends

चतुरः सखि मे भर्ता यल्लिखति तत् परो न वाचयति । तस्मादप्यधिकं मे स्वयमपि लिखितं स्वयं न वाचयति ॥

Sanskrit Tattoo 6

A scholar knows no boredom

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन तु मूर्खाणाम् निद्रया कलहेन वा ॥

Sanskrit Tattoo 7

Poetry is the crown of literature

कं पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि । किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥

Sanskrit Tattoo 8

Behind every man’s success is a woman

यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥

Sanskrit Tattoo 9

Speech is a mirror of the soul

केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलाः न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः । वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते क्षीयन्ते खलू भूषणानि सततं वाग्भूषणं भूषणं ॥

Sanskrit Tattoo 10

When going gets tough, the tough get going

सम्पत्सु महतां चित्तम् भवत्युत्पलकोमलम् । आपत्सु च महाशैलशिलासङ्घातकर्कशम् ॥

Sanskrit Tattoo 11

Art is the empirical queen of all sciences

साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानः तद्भागधेयं परमं पशूनाम् ॥

Sanskrit Tattoo 12

There is no rose without a thorn

रत्नैर्महार्हैस्तुतुषुर्न देवाः न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामम् न निश्चितार्थाद्विरमन्ति धीराः ॥

Sanskrit Tattoo 13

Better be alone than in a bad company

कुग्रामवासः कुजनस्य सेवा कुभोजनं क्रोधमुखी च भार्या । मूर्खश्च पुत्रो विधवा च कन्या दहन्त्यमी वह्निमृते शरीरम् ॥

Sanskrit Tattoo 14

Life lived for others is a life worthwhile

जीविते यस्य जीवन्ति लोके मित्राणि बान्धवाः । सफलं जीवितं तस्य को न स्वार्थाय जीवति ॥

Sanskrit Tattoo 15

सहनाववतु

सह नौ भुनक्तु

सह वीर्यं करवावहै ।

तेजस्विनावधीतमस्तु

मा विद्विषावहै

ॐ शान्तिः शान्तिः शान्तिः ॥

May we all be protected.

May we all be nourished.

May we all work in harmony with great enthusiasm.

May our study enlighten us.

May there be no misunderstanding or hatred between us.

Om Peace Peace Peace

Sanskrit Tattoo 16

Never argue with a fool

प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात् समुद्रमपि सन्तरेत्प्रचलदूर्मिमालाकुलम् । भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत् न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥

Sanskrit Tattoo 17

Better unborn than untaught

माता शत्रुः पिता वैरी याभ्यां बाला न पाठिताः । सभामध्ये न शोभन्ते हंसमध्ये बको यथा ॥

Incoming search terms for the article:

anughachatu pravah in sanskrrit,anughachatu pravah

Speak Your Mind

*