Sanskrit Tattoo 1
Greed is the root of all evil
लोभमूलानि पापानि सङ्कटानि तथैव च । लोभात्प्रवर्तते वैरम् अतिलोभात्विनश्यति ॥
Sanskrit Tattoo 2
You cannot love without giving
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम् ॥
Sanskrit Tattoo 3
The world is my home
अयं निजो परो वेति गणना लघुचेतसाम् । उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
Sanskrit Tattoo 4
Silence is the virtue of fools
स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः । विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम् ॥
Sanskrit Tattoo 5
All truths are not to be told
सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयात् एष धर्मस्सनातनः ॥
Sanskrit Tattoo 6
Forgiveness, the best form of revenge
क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति । अतृणे पतितो वह्निः स्वयमेवोपशाम्यति ॥
Sanskrit Tattoo 7
Time is free, but it’s priceless
आयुषः क्षण एकोऽपि न लभ्यः स्वर्णकोटिभिः । स चेन्निरर्थकं नीतः का नु हानिस्ततोऽधिका ॥
Sanskrit Tattoo 8
Responsibility, the price of leadership
न गणस्याग्रतो गच्छेत् सिद्धे कार्ये समं फलम् । यदि कार्यविपत्तिः स्यात् मुखरस्तत्र हन्यते ॥
Sanskrit Tattoo 9
After a storm comes a calm
सुखस्यानन्तरं दुःखम् दुःखस्यानन्तरं सुखम् । न नित्यं लभते दुःखम् न नित्यं लभते सुखम् ॥
Sanskrit Tattoo 10
It’s never too late
अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते । स्वल्पमप्यनुगन्तव्यम् मार्गस्थो नावसीदति ॥
Sanskrit Tattoo 11
Idleness is the root of all evil
अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् । अधनस्य कुतो मित्रम् अमित्रस्य कुतः सुखम् ॥
Sanskrit Tattoo 12
Knowledge, an extraordinary treasure
अपूर्वः कोऽपि कोशोऽयम् विद्यते तव भारति । व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ॥
Sanskrit Tattoo 13
A little knowledge is a dangerous thing
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥
Sanskrit Tattoo 14
Live in the present
गते शोको न कर्तव्यः भविष्यं नैव चिन्तयेत् । वर्तमानेन कालेन वर्तयन्ति विचक्षणाः ॥
Sanskrit Tattoo 15
A man is as old as he feels
एकोऽहमसहायोऽहम् कृशोऽहमपरिच्छदः । स्वप्नेऽप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते ॥
Sanskrit Tattoo 16
Crime doesn’t pay
परस्य पीडया लब्धम् धर्मस्योल्लङ्घनेन च । आत्मावमानसम्प्राप्तम् न धनं तत् सुखाय वै ॥
Sanskrit Tattoo 17
You can’t please everyone
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे ह्यात्मार्थे पृथिवीं त्यजेत् ॥
can you translate;
“you can cage my body, but you cannot contain my soul” ???
if you can thank you, this web site is awesome!!!
it helped my daughter learn alot!