Sanskrit Tattoos of English Phrases 2

Sanskrit Tattoo 1

Contentment is natural wealth

सर्पाः पिबन्ति पवनं न च दुर्बलास्ते शुष्कैस्तृणैर्वनगजाः बलिनो भवन्ति । कन्दैः फलैर्मुनिवराः क्षपयन्ति कालम् सन्तोष एव पुरुषस्य परं निधानम् ॥

Sanskrit tattoo 2

Love is blind

यां चिन्तयामि सततं मयि सा विरक्ता साप्यन्यमिच्छति जनं स जनोऽन्यसक्तः । अस्मत्कृते च परिशुष्यति काचिदन्या धिक्तां च तं च मदनं च इमां च मां च ॥

Sanskrit tattoo 3

Perseverance is the key to success

प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहताः विरमन्ति मध्याः । विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारभ्य चोत्तमजनाः न परित्यजन्ति ॥

Sanskrit tattoo 4

Marriages ARE made in heaven

यः सुन्दरस्तद्वनिता कुरूपा या सुन्दरी सा पतिरूपहीना । यत्रोभयं तत्र दरिद्रता च विधेर्विचित्राणि विचेष्टितानि ॥

Sanskrit Tattoo 5

Giving is living

परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः । परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम् ॥

Sanskrit tattoo 6

Money can’t buy happiness

अर्थानामर्जने दुःखम् अर्जितानां च रक्षणे । आये दुःखं व्यये दुःखम् धिगर्थाः कष्टसंश्रयाः ॥

Sanskrit tattoo 7

Knowledge, the best form of wealth

न चोरहार्यं न च राजहार्यम् न भ्रातृभाज्यं न च भारकारी । व्यये कृते वर्धते एव नित्यम् विद्याधनं सर्वधनप्रधानम् ॥

Sanskrit tattoo 8

Appearances can be deceptive

परोक्षे कार्यहन्तारम् प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशं मित्रम् विषकुम्भं पयोमुखम् ॥

Sanskrit tattoo 9

Appearance does make a difference

किं वाससेत्यत्र विचारणीयम् वासः प्रधानं खलु योग्यतायै । पीताम्बरं वीक्ष्य ददौ स्वकन्याम् दिगम्बरं वीक्ष्य विषं समुद्रः ॥

sanskrit tattoo 10

Say what you mean, Do what you say

यथा चित्तं तथा वाचः यथा वाचस्तथा क्रियाः । चित्ते वाचि क्रियायाञ्च साधूनामेकरूपता ॥

sanskrit tattoo 11

Work is worship

उत्साहसम्पन्नमदीर्घसूत्रम् क्रियावधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः ॥

sanskrit tattoo 12

Prevention is better than cure

चिन्तनीया हि विपदाम् आदावेव प्रतिक्रिया । न कूपखननं युक्तम् प्रदीप्ते वह्निना गृहे ॥

sanskrit tattoo 13

Where there is a will, there is a way

उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् । सोत्साहस्य च लोकेषु न किञ्चिदपि दुर्लभम् ॥

Sanskrit tattoo 14

Education, the best form of charity

अन्नदानं परं दानम् विद्यादानमतः परम् । अन्नेन क्षणिका तृप्तिः यावज्जीवञ्च विद्यया ॥

Sanskrit tattoo 15

Better bend than break

नमन्ति फलिनो वृक्षाः नमन्ति गुणिनो जनाः । शुष्ककाष्ठानि मूर्खाश्च न नमन्ति कदाचन ॥

Sanskrit tattoo 16

As you sow, so shall you reap

यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥

Sanskrit tattoo 17

Deserve before you desire

पुण्यस्य फलमिच्छन्ति पुण्यं नेच्छन्ति मानवाः । न पापफलमिच्छन्ति पापं कुर्वन्ति यत्नतः ॥

Sanskrit tattoo 18

Keep your words soft and sweet

प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यम् वचने का दरिद्रता ॥

Sanskrit tattoo 19

A closed mouth catches no flies

उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥

Sanskrit tattoo 20

Never put off till tomorrow what you can do today

न कश्चिदपि जानाति किं कस्य श्वो भविष्यति । अतः श्वः करणीयानि कुर्यादद्यैव बुद्धिमान् ॥

Sanskrit tattoo 21

विद्या मित्रं प्रवासेषु भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रम् धर्मो मित्रं मृतस्य च ॥

Knowledge is a friend when on journey. Wife is a friend at home. For the sick, medicine is a friend. Dharma is a friend for the dead (i.e, after death).

Incoming search terms for the article:

?????? ????? ??????? ?,???????? tatto

Speak Your Mind

*