Sanskrit Tattoos of English Phrases 1

Sanskrit Tattoo 1

Fortune favors the bold

उद्यमस्साहसं धैर्यम् बुद्धिः शक्तिः पराक्रमः । षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥

Sanskrit Tattoo 2

A true friend is the best possession

जाड्यं धियो हरति सिञ्चति वाचि सत्यम् मानोन्नतिं दिशति पापमपाकरोति । चेतः प्रसादयति दिक्षु तनोति कीर्तिम् सत्सङ्गतिः कथय किं न करोति पुंसाम् ॥

Sanskrit Tattoo 3

A show of envy is an insult to oneself

न शरन्मेघवत्कार्ये वृथैव घनगर्जितम् । परस्यार्थमनर्थं वा प्रकाशयति नो महान् ॥

Sanskrit Tattoo 4

Never disclose your weaknesses

अर्थनाशं मनस्तापम् गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान्न प्रकाशयेत् ॥

Sanskrit Tattoo 5

What’s duly his, a man receives; This law not even God can break; My heart is not surprised, nor grieves; For what is mine, no strangers take.

प्राप्तव्यमर्थं लभते मनुष्यो देवोऽपि तं लङ्घयितुं न शक्तः । तस्मान्न शोचामि न विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ॥

Sanskrit tattoo 6

Stay away from a fool

वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह । न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि ॥

Sanskrit tattoo 7

A friend in need is a friend indeed

आपत्काले तु सम्प्राप्ते यन्मित्रं मित्रमेव तत् । वृद्धिकाले तु सम्प्राप्ते दुर्जनोऽपि सुहृद्भवेत् ॥

Sanskrit tattoo 8

Mathematics is the queen of the Sciences

यथा शिखा मयूराणाम् नागानां मणयो यथा । तथा वेदाङ्गशास्त्राणां गणितं मूर्ध्नि वर्तते ॥

Sanskrit tattoo 9

पठतो नास्ति मूर्खत्वम् जपतो नास्ति पातकम् । मौनिनः कलहो नास्ति न भयं चास्ति जाग्रतः ॥

A learned person can never act foolishly. A devout person can never be wicked. A silent person can never get involved in quarrels. A person who is alert and awake can never be afraid.

Sanskrit tattoo 10

Never give advice to a fool

पयःपानं भुजङ्गानाम् केवलं विषवर्धनम् । उपदेशो हि मूर्खाणाम् प्रकोपाय न शान्तये ॥

Sanskrit tattoo 11

नास्ति विद्यासमो बन्धुः नास्ति विद्यासमः सहृत् । नास्ति विद्यासमं वित्तम् नास्ति विद्यासमं सुखम् ॥

There is no kin equivalent to knowledge. There is no friend equivalent to knowledge. There is no wealth equivalent to knowledge. There is no happiness equivalent to knowledge.

Sanskrit tattoo12

The sun, the moon, the wind, the fire, the sky, the earth, the water, the heart, the death, the day, the night, both the twilights, and the dharma know all the activities of a man.

आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च संध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥

Sanskrit tattoo 13

Knowledge is the key to success

कामधेनुगुणा विद्या ह्यकाले फलदायिनी । प्रवासे मातृसदृशी विद्या गुप्तं धनं स्मृतम् ॥

Sanskrit tattoo 14

Poverty is a curse

अपुत्रस्य गृहं शून्यम् सन्मित्ररहितस्य च । मूर्खस्य च दिशः शून्याः सर्वशून्या दरिद्रता ॥

Sanskrit tattoo 15

In adversity, we know our true friends

आतुरे व्यसने प्राप्ते दुर्भिक्षे शत्रुसङ्कटे । राजद्वारे श्मशाने च यस्तिष्ठति स बान्धवः ॥

Sanskrit tattoo 16

रविश्चन्द्रो घनाः वृक्षाः नदी गावश्च सज्जनाः । एते परोपकाराय युगे दैवेन निर्मिताः ॥

The sun, the moon, huge trees, rivers, cows and virtuous people are created by the almighty for helping others.

Sanskrit tattoo 17

Learn as if you were to live forever

अजरामरवत्प्राज्ञो विद्यामर्थञ्च चिन्तयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

Sanskrit tattoo 18

Nothing but fame, lasts forever

चलं वित्तं चलं चित्तम् चले जीवितयौवने । चलाचलमिदं सर्वम् कीर्तिर्यस्य स जीवति ॥

Sanskrit tattoo 19

Genius is 1% inspiration and 99% perspiration

सुखार्थी त्यजते विद्याम् विद्यार्थी त्यजते सुखम् । सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥

Sanskrit tattoo 20

Learn to listen, listen to learn

शतेषु जायते शूरः सहस्रेषु च पण्डितः । वक्ता दशसहस्रेषु श्रोता भवति वा न वा ॥

Sanskrit tatttoo 21

स्थानमुत्सृज्य गच्छन्ति सिंहाः सत्पुरुषाः गजाः । तत्रैव निधनं यान्ति काकाः कापुरुषाः मृगाः ॥

Lions, virtuous people and elephants evacuate places (wherever they are not respected), whereas crows, wicked people and deers continue to stay there till death.

Incoming search terms for the article:

fortune favors the bold in sanskrit

Speak Your Mind

*